Abstract
हितानुशासनरूपस्य शास्त्रस्य पदपदार्थरूपत्वं सर्वसिद्धं वर्तते । एवं सति पदे पदार्थे च सम्बन्धरूपेण व्यञ्जनाया अपरिहार्यत्वात् शाब्दिकानां मते वर्णपदवाक्यजातिव्यक्तिभेदेन अष्टौ स्फोटाः सन्ति । तेषु अखण्डवाक्यस्फोटस्यैव मुख्यतं शब्दब्रह्मण स्वरूपं च स्वीर्कतं विद्यते । स च स्फोटः स्फुटत्यर्थो यस्मादशौ स्फोटः । स्फुट्यत अर्थ अनेन इति स्फोटः वा । शब्दार्थोभयात्मकः स्फोटः सिद्धः । तच्च प्राकृतध्वनिव्यङ्गयत्वे सति निराकाङ्क्षार्थ बोधजनकत्वं स्फोटत्वम् । एतादृशं लक्षणं स्फोटस्य ध्वनि व्यङ्ग्यत्वं व्यञ्जनां विना न सम्भवति । यतः शाब्दिकानां मते व्यञ्जनावृतिरावश्यकी एवञ्च आलङ्कारिकाणां साहित्यशास्त्रे काव्यत्वं रसास्वादेन ब्रह्मसहोदरत्वं व्यङ्ग्यत्वं च न सम्भवति । हितेन सह सहितं, तस्य भावः कर्म वा साहित्यम् । व्यञ्जनाविरहेण लोकोपकारकत्वमपि न सम्भवेत । अतः तस्या वृतेहेः परिशीलनं विद्येते । सा च परार्थाऽभिधानां लक्ष्यते परशब्देन परत्वमर्थशब्देन च आत्मीयत्वं बोद्ध्यम् । एवञ्च परार्थबोधकत्वे सति स्वार्थबोधकत्वं वृत्तित्वमिति फलति । अपि च शाब्दबोधजनकज्ञानविषयपदपदार्थसम्बन्धत्वं वृत्तित्त्वमिति वैयाकरणनये शब्दशक्तिरूपा वृत्तिस्त्रिधा भवति यथा अभिधालक्षणाव्यञ्जनेति नागेशैर्मञ्जूषायामुक्तम् परं परार्थाऽभिधानत्वेन कृत्तद्धितसमासैकशेषसनाद्यन्तधातुरूपाः पञ्चवृत्तयो भट्टोजिदीक्षितेन समासादौ उक्ताः, तासु व्यञ्जनाविषये विवदमानानां दार्शनिकान्तराणाम्मतमतिक्रम्य वैयाकरणानां मते व्यञ्जना नाम मुख्यार्थबाधनिरपेक्षबोधजनको मुख्यार्थसम्बद्धासम्बद्धसाधारणः प्रसिद्धाप्रसिद्धार्थविषयको वक्त्रादिवैशिष्ट्यज्ञानप्रतिभाद्युद्बुद्धः संस्कार विशेषेति परमलघुमञ्जूषायां विवृतम् । प्रतिभा च नवनवोन्मेषशालिनीबुद्धिः । वक्त्रादिवैशिष्ट्यसहकारेण जन्मान्तरीयतद्धी जनकत्वप्रकारकज्ञानजन्यसंस्कारोद्बोधजबुद्धिरूपा, वासनाविशेषरूपेति वा । तथा च शक्तिरेतज्जन्मानुभूतैव बोधजनिका व्यञ्जना तु जन्मान्तरं गृहीता अपि बोध्या विशेषोऽत्र वर्तते । आलङ्कारिकास्तु शक्तिस्त्रिधा अभिधालक्षणाव्यञ्जनेति वदन्ति सा च व्यञ्जनाऽभिधेयः शक्यलक्ष्यतात्पर्यार्थातिरिक्तो व्यङ्ग्यत्वेन प्रतिपाद्यो वस्त्वलङ्काररसास्वादनैकलक्षणे बोध्यः = प्रत्याय्यः । स एव शब्दस्य अर्थस्यान्तरिकी वृत्तिव्र्यञ्जना उच्यते । वैयाकरणास्तु वृत्तिस्त्रिधा शक्ति–लक्षणा– व्यञ्जनेति वदन्ति । इत्थमत्र कथने विभेदेऽपि उभयोर्मते त्रिधैवशब्दशक्तिरित्यत्र विवादो नास्ति, वैयाकरणैरङ्गीकृतया व्यञ्जनया निपातानां द्योतकत्वं स्फोटस्याऽभिव्यङ्ग्यत्वञ्चानयैव शब्दशक्त्या सिद्धा । आलङ्कारिकाणां नये तु व्यञ्जनां विना व्यङ्ग्यकाव्यत्वादीनां काव्ये सर्वजनाऽभिरुचिकरत्वं ब्रह्मसहोदररसस्वरूपत्वञ्च न सम्भवति, तच्च अनयैव शक्त्या प्रतिपादिता अभिहिता वा नान्योपायैः सम्भवति । अत आलङ्कारिकवैयाकरणयोर्मतं एतद्विषये किम् ? कथञ्च व्यञ्जनाया विभेदव्यङ्ग्यत्वं प्रत्यपादि ? स एव विषयोऽत्र प्रतिपाद्यते ।
Published Version
Talk to us
Join us for a 30 min session where you can share your feedback and ask us any queries you have